Type Here to Get Search Results !

पुजा पाठ

 संक्षिप्त पुजा पाठ


पवित्र 



!!शिखा बांधे!!


।।तिलक ।।


कान्ति लक्ष्मीं धृतिं सौख्यं सौभाग्यमतुलं बलम् । 

ददातु चन्दनं नित्यं सततं धार याम्यहम् 


ऊँ चन्दस्य महत् पुण्यं पवित्रं पाप नाशनम् ,

आपदाम् हरते नित्यं लक्ष्मिष्तिस्ठति सर्वदा ।।


ललाटे केशवं ध्याये न्नारायण मथोदरे। वक्षःस्थले माधवं तु गोविन्दं कण्ठकूपके ।। विष्णुं च दक्षिणे कुक्षौ बाहु च मधुसूदनम्। त्रिविक्रमं कन्धरे तु वामनं वामपार्श्वके ।। श्रीधरं वामबाहु तु हृषीकेशं तु कन्धरे। पृष्ठे च पद्मनाभं च कट्यां दामोदरं न्यसेत् ।।



।।मोली।।


येन बद्धो बलीराजा दानवेन्द्रो महाबल:। 

तेन त्वामनुबध्नामि रक्षे माचल माचल।। 

मङ्गलम् भगवान विष्णुः मङ्गलम् गरुणध्वजः। 

मङ्गलम् पुण्डरी काक्षः मङ्गलाय तनो हरिः॥


हस्तोप्रकक्षालय


आचमन 3 बार 


कुंश ( पवित्री)


'पवित्रे स्थो वैष्णव्यौ सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।

 तस्य ते पवित्रपते पवित्रपूतस्य यत्कामःपुने तच्छकेयम्।

'

संक्षिप्त दिग्रक्षण मंत्र : 

ॐ अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः । ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया । अपक्रामन्तु भूतानि पिशाचाः सर्वतोदिशम्। सर्वेषामविरोधेन पूजाकर्म समारभे ॥


गुरुमंत्र - गुरुं


 ॐगुरुर ब्हमा गुरुर विष्णु गुरुर देवो महेश्वरा, 

गुर्रुर साक्षात परर्भृम तस्मै श्री गुरुवै नमः ।।


त्वमेव माता च पिता त्वमेव । 

त्वमेव बन्धु च सखा त्वमेव ॥ 

त्वमेव विद्या द्रविणं त्वमेव । 

त्वमेव सर्वमम देवि देव ॥



[[सुर्य नमस्कार]]


ॐ ऐहि सूर्य सहस्त्रांशों तेजो राशे जगत्पते, अनुकंपयेमां भक्त्या, गृहाणार्घय दिवाकरः 

 

ऊँ आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यण्च । हिरण्य़येन सविता रथेन देवो याति भुवनानि पश्यन ।।


!!वायू नमस्कार!!





आसन शुद्धि मंत्र - 


ॐ पृथ्वी त्वया धृता लोका देवि त्वं विष्णुना धृताः । त्वं च धारयः मां देवि पवित्रं कुरु च आसनम् ॥ ॐ पुण्डरीकाक्षः पुनातु । ॐ पुण्डरीकाक्षः पुनातु ।।


स्वस्तिवाचन।।


आ नो॑ भ॒द्राः क्रत॑वो ज्यन्तु॒ वि॒श्वतोऽद॑ब्धासो॒ अप॑रि॒तासः॑ उ॒द्भिदः॑ । दे॒वा नो॒ यथा॒ सद॒मिद् वृधेऽअस॒न्नप्रा॑यु॒वो रक्षि॒तारो॑ दि॒वेदि॑वे ॥


दे॒वानां॑ भ॒द्रा सु॑म॒तिऋजूय॒तां दे॒वानां॑ गो॑ रा॒तिर॒भि नो॑ नि व॑र्तताम् । दे॒वानां॑ गुँ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ऽआयुः

प्रति॑रन्तु जी॒वसें ॥


तान्पूर्व॑या नि॒वदा॑ हूमहे व॒यं भग॑ मि॒त्रमदि॑ति॒ दक्ष॑म॒स्रिधम् ।आर्यमणं वरु॑ण॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ॥


तन्नोवातो मयोभूवातु भेषजं तन्नमाता पृथिवी तत्पिता द्यौ: । तद्ग्रावान: सोमसुतो मयोभूवस्त दस्विना श्रुनुतं धिष्ण्या युवं ।।


तमीशानं जगत स्तस्थुखसपतिं धियंजिन्वमवसे हूमहे वयम । पूषा नो यथा वेद सामसद वृधे रक्षिता पायुरदब्ध: स्वस्तये ।।


स्वस्ति न इन्द्रो वृद्ध श्रवा: स्वस्ति न पूषा विस्ववेदा: ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: स्वस्ति नो वृहस्पति दधातु।।


पृषदश्वा मरुत: प्रिश्निमातर: शुभं यावानो विदथेषु जग्मय:।अग्निजिह्वा मनव: सूरचक्षसो विश्वे नो देवा अवसागमन्निह।।


भद्रं कर्णेभि: शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवा ग्वंग सस्तनू भिर्व्यशेमहि देवहितं यदायु:।।


शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।

पुत्रासो यत्र पितरो भवन्ति मानो मध्या रीरिषता युर्गन्तो:।।


अदितिर्द्यौ रदिति रन्तरिक्ष्म दितिर्माता स पिता स पुत्र:।

विश्वेदेवा अदिति: पञ्चजना अदितिर जात मदितिर जनित्वम् ।।



द्यौ: शान्ति रन्तरिक्ष् ग्वंग शान्ति: पृथिवी शान्ति राप: शान्ति रोषधय: शान्ति:।वनस्पतय: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति: सर्व ग्वंग शान्ति: शान्तिरेव शान्ति: सामा शान्तिरेधि।।


यतो यत: समीहसे ततो नो अभयं कुरु ।

शं न: कुरु प्रजाभ्यो भयं न: पशुभ्य: ।।


सुशान्तिर्भवतु


श्री मन्महागणाधिपतये नमः।


लक्ष्मीनारायणाभ्यां नम:।


उमामहेश्वराभ्यां नम:।


वाणीहिरण्यगर्भाभ्यां नं:।


शचिपुरन्दराभ्यां नम:।


इष्टदेवताभ्यो नम:।


कुलदेवताभ्यो नम:।


ग्रामदेवताभ्यो नम:।


वास्तुदेवताभ्यो नम:।


स्थानदेवताभ्यो नम:।


सर्वेभ्यो देवेभ्यो नम:।


सर्वेभ्यो ब्राह्मणेभ्यो नम:।


 ॐ सिद्धिबुद्धिसहिताय श्री मन्महागणाधिपतये नम:।


 !! गणेश ध्यान!!


सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।

 लम्बोदरश्च विकटो विघ्ननाशो विनायक:।।


धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजानन:।

 द्वद्शैतानि नामानि यः पठे च्छ्रिणुयादपी।।


विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा।

संग्रामे संकटे चैव विघ्नस्तस्य न जायते।।


शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्व्विघ्नोपशान्तये।।


अभिप्सितार्थ सिद्ध्यर्थं पूजितो य: सुरासुरै:।

सर्वविघ्नहरस्तस्मै गणाधिपतये नम:।।


सर्वमङ्गलमाङ्गल्ये ! शिवे ! सर्वार्थसाधिके।

शरण्ये त्र्यम्बिके ! गौरी नारायणि नमोस्तुते।।


सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम्।

येषां हृदयस्थो भगवान् मङ्गलायतनो हरि:।।


तदेव लग्नं सुदिनं तदेव,ताराबलं चन्द्रबलं तदेव ।

विद्याबलं दैवबलं तदेव,लक्ष्मीपते तेन्घ्रियुगं स्मरामि।।


लाभस्तेषां जयस्तेषां कुतस्तेषां पराजय:।

येषामिन्दीवरश्यामो हृदयस्थो जनार्दन:।।


यत्र योगेश्वर: कृष्णो यत्र पार्थो धनुर्धर:।

तत्र श्रीर्विजयो भूति र्ध्रुवा नीतिर्मतिर्मम।।


अनन्यास्चिन्तयन्तो मां ये जना: पर्युपासते।

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्।।


स्मृतेःसकल कल्याणं भाजनं यत्र जायते।

पुरुषं तमजं नित्यं व्रजामि शरणं हरम्।।


सर्वेष्वारंभ कार्येषु त्रय:स्त्री भुवनेश्वरा:।

देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दना:।।


विश्वेशम् माधवं दुन्धिं दण्डपाणिं च भैरवम्।

वन्दे कशी गुहां गंगा भवानीं मणिकर्णिकाम्।।


वक्रतुण्ड् महाकाय सूर्य कोटि समप्रभ।

निर्विघ्नं कुरु में देव सर्वकार्येषु सर्वदा।।


ॐ श्री गणेशाम्बिका भ्यां नम: ||


  संकल्प 

बृहद संकल्प click 

ॐ विष्णुर्विष्णुर्विष्णुः, ॐ अद्य ब्रह्मणोऽह्नि द्वितीय परार्धे श्री श्वेत वाराह कल्पे वैवस्वत मन्वन्तरे, अष्टा विं शति तमे कलियुगे, कलिप्रथम चरणे जम्बूद्वीपे भरतखण्डे भारतवर्षे पुण्य (कर्नाटका राज्ये / बेंगलुरु नखरे/ ग्रामे) बौद्धावतारे वीर संवत्सरे..…याने….. ऋतो….मासानां …..मासोत्तमे मासे. पक्षे…. तिथौ….. वासरे (गोत्र का नाम लें) गोत्रोत्पन्नोऽहं अमुकनामा (अपना नाम लें) ( पतनीकोहम) (पुत्रों) ( पुत्रीहं) ( सकल परिवार स्य)( सकल कुटुम्ब स्य)( सकल पापक्षय पूर्वकं सर्वारिष्ट शांति निमित्तं सर्व मंगल कामनया- श्रुति स्मृत्योक्त फल प्राप्त्यर्थं मनेप्सित कार्य सिद्धयर्थं श्री ( नवदुर्गा पुजन। सरवत्रो पुजन। श्री पु, गणेश पु, षोडशमितृकि पु, क्षेत्रपाल पु, नवग्रह पूजन, कलश पु, दीपक पु, सर्वे आवाहित देवी देवता )(जिस देवी देवता की पूजा कर रहे हैं उनका नाम ले) पूजनं च अहं करिष्ये । तत्पूर्वागंत्वेन निर्विघ्नता पूर्वक कार्य सिद्धयर्थं यथा मिलितोपचारे गणपत्यादि आवाहित देवी देवता पूजनं करिष्ये ।



दीपक पूजन


ॐ नमोऽस्त्वनन्ताय सहस्र मूर्तये,सहस्र पादा क्षिशिरो रुबाहवे ।

 सहस्रनाम्ने पुरुषाय शाश्वते, सहस्र कोटी युग धारिणे नमः


नमः कमल नाभाय नमस्ते जलशा यिने । 

नमस्ते केश वानन्त ! वासुदेव नमोऽस्तुते ||


वासुना द्वासुदेवस्य वासितं भुवनत्रयम् । 

सर्व भूत निवा सोऽसि वासु देव नमोऽस्तुते ।।


दीपो ज्योतिः परब्रह्म दीप ज्योति र्जनार्दन ।

 दीपो हरतु मे पापं रक्ष दीप नमोऽस्तुते ।।


शुभं कल्याणमारोग्यं सुखसम्पदः । 

कर्मणां साक्षीरुपस्त्वं दीपज्योतिर्नमोऽस्तुते ||


भो दीप ! देवरुपस्त्वं कर्मसाक्षीह्यविघ्नकृत् ।

 यावत् पूजा समाप्तिः स्यात्तावत्वं सुस्थिरो भव ।।


ॐ भुर्भुवः स्वः दीपनारायणाय नमः प्रार्थनार्थेपुष्पं समर्पयामि,नमस्करोमि ।।



औपचार पूजा

अर्घ्यं -


अर्घ्यं गन्ध पुष्पा अक्षतैः सह । 

करुणाकरं मे देव गृहाणार्घ नमोस्तुते।। 

हस्तयोरध्यं समर्पयामि अमुक भगवते नमः


आचमन-


सर्वतिर्थसमायुक्तं सुगन्धिनिर्मलं जलम्। 

आचम्यतां मयादत्तं ग्रहित्वा परमेश्वर ।। 

मुखे आचमनियं समर्पयामि अमुक भगवते नमः


जलस्नान- 

गंगा सरस्वति रेवा पयोष्णी नर्मदाजलैः । 

स्नानापितौसि मया देव तथा शान्तिं कुरुश्च मे ।। 

स्नानार्थ जल समर्पयामि अमुक भगवते नमः


दुग्धस्नान-


कामधेनुसमुद्भूतं सर्वेषां जीवनं परम् ।

 पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ॥ 

ॐ भूर्भुवः स्वः ……..नमः, पयः स्नानं समर्पयामि।(दूधसे स्नान कराये ) ।


दधिस्नान-


पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् । 

दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ॥ 

ॐ भूर्भुवः स्वः……….नमः, दधिस्नानं समर्पयामि । (दधिसे स्नान कराये) ।


घृतस्नान-


नव नीत समुत्पन्नं सर्व संतोष कार कम् ॥ 

घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥

 ॐ भूर्भुवः स्वः……….नमः, घृतस्नानं समर्पयामि ॥ (घृतसे स्नान कराये) ।


मधुस्नान-


पुष्प रेणु समुद्भूतं सुस्वादु मधुरं मधु l

तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥

 ॐ भूर्भुवः स्वः,,,,,,,,,,,,,,,नमः, मधुस्नानं समर्पयामि । (मधुसे स्नान कराये।)


शर्करास्नान-


इक्षुसारसमुद्भूतां शर्करां पुष्टिदां शुभाम् । 

मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ॥ 

ॐ भूर्भुवः स्वः,,,,,,,,,,,,नमः, शर्करास्नानं समर्पयामि। (शर्करासे स्नान कराये) ।


पञ्चामृतस्नान-


         पञ्चामृतं मयानीतं पयो दधि घृतं मधु । 

शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥ 

ॐ भूर्भुवः स्वः,,,,,,,,,,नमः, पञ्चामृतस्नानं समर्पयामि। (पञ्चामृतसे स्नान कराये।)


गन्धोदकस्नान-


 मलया चल सम्भूत चन्दनेन विनिःसृतम् । 

इदं गन्धो दक स्नानं कुङ्कुमाक्तं च गृह्यताम् ॥ 

ॐ भूर्भुवः स्वः,,,,,,,,,,नमः, गन्धोदकस्नानं समर्पयामि। (गन्धोदकसे स्नान कराये।)


शुद्धोदकस्नान-


गङ्गा च यमुना चैव गोदावरी सरस्वती । नर्मदा सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम् ॥ 

ॐ भूर्भुवः स्वः,,,,,,,,,,,,,,,नमः, शुद्धोदकस्नानं समर्पयामि । (शुद्ध जलसे स्नान कराये।)


आचमन-


शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि । (आचमनके लिये जल दे।)


वस्त्र-


शीत वातोष्ण संत्राणं लोक लज्जाया रक्षणं परम् । देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ॥ 

ॐ भूर्भुवः स्वः,,,,,,,,,,,,,,,, नमः, वस्त्रं समर्पयामि। (वस्त्र समर्पित करे।)


आचमन-


वस्त्रान्ते आचमनीयं जलं समर्पयामि। (आचमनके लिये जल दे।)


उपवस्त्र-



यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति । 

उपवस्त्रं प्रयच्छामि सर्व कर्मोप कारकम् ॥ 

ॐ भूर्भुवः स्वः,,,,,,,,,,,,,,,,नमः, उपवस्त्रं (उपवस्त्राभावे रक्तसूत्रं समर्पयामि)। (उपवस्त्र समर्पित करे ।)


आचमन-


उपवस्त्रान्ते आचमनीयं जलं समर्पयामि। (आचमनके लिये जल दे।)


यज्ञोपवीत-


ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ ॐ भूर्भुवः स्वः ,,,,,,,,,,,,,,,नमः, यज्ञोपवीतं समर्पयामि। (यज्ञोपवीत समर्पित करे।)


आचमन-


यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि । (आचमनके लिये जल दे।)


चन्दन -


 श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । 

विलेपनं सुरश्रेष्ठ! चन्दनं प्रतिगृह्यताम् ॥

ॐ भूर्भुवः स्वः,,,,,,,,,,,,,, नमः, चन्दनानुलेपनं समर्पयामि। (चन्दन अर्पित करे।)


अक्षत-


ॐ 

अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः । मया निवेदिता भक्त्या गृहाण परमेश्वर ॥


ॐ भूर्भुवः स्वः,,,,,,,,,,,,,, नमः, अक्षतान् समर्पयामि (अक्षत चढ़ाये।)


पुष्पमाला-


माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो । मयाहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ॥

ॐ भूर्भुवः स्वः ,,,,,,,,,नमः, पुष्पमालां समर्पयामि। (पुष्पमाला समर्पित करे।)


दूर्वा-


ॐ काण्डात त्काण्डात प्रोहन्ती परुषः परुषस्परि एवा नो दूर्वे प्र तनु सहस्त्रेण शतेन च ॥ 


ॐ भूर्भुवः,,,,,,,,,,, नमः, दूर्वाङ्कुरान् समर्पयामि । (दूर्वाङ्कुर चढ़ाये।)


सिन्दूर-


ॐ 

सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम् । 

शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ॥ 

ॐ भूर्भुवः स्वः,,,,,,,,,,,,नमः, सिन्दूरं समर्पयामि । (सिन्दूर करे।)


अबीर-गुलाल -


अबीरं च गुलालं च हरिद्रादिसमन्वितम् । नाना परिमलं द्रव्यं गृहाण परमेश्वर ॥ 

ॐ भूर्भुवः स्वः,,,,,,,,,,,,,,, नमः, नानापरिमलद्रव्याणि समर्पयामि। (अबीर आदि चढ़ाये।)


सुगन्धिद्रव्य-


दिव्य गन्ध समायुक्तं महा परि मलाद्भुतम् । गन्ध द्रव्य मिदं भक्त्या दत्तं वै परि गृह्य ताम् ॥

ॐ भूर्भुवः स्वः,,,,,,,,,,,,, नमः, सुगन्धिद्रव्यं समर्पयामि। (सुगन्धित द्रव्य अर्पण करे।)


धूप-


वनस्पति रसोद्भूतो गन्धाढ्यो उत्तमः | 

आघ्रेयः सर्व देवानां धूपोऽयं प्रतिगृह्यताम् ॥ 

ॐ भूर्भुवः स्वः ,,,,,,,,,,,, नमः, धूपमाघ्रापयामि । (धूप दिखाये।)


दीप-


 अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा ॥ ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा ॥ (यजु० ३। ९)

ॐ भूर्भुवः स्वः,,,,,,,,,,,,,,,नमः, दीपं दर्शयामि । (दीप दिखाये।)


हस्तप्रक्षालन-


'ॐ हृषीकेशाय नमः' कहकर हाथ धो ले।


नैवेद्य-

नैवेद्यको प्रोक्षितकर गन्ध-पुष्पसे आच्छादित करे। तदनन्तर जलसे चतुष्कोण घेरा लगाकर भगवान् के आगे रखे।


ॐ नाभ्या आसीदन्तरिक्ष गुँ शीर्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ२ अकल्पयन् ॥ ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ समानाय स्वाहा। ॐ उदानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ अमृतापिधानमसि स्वाहा ।


शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च । आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥ 

ॐ भूर्भुवः स्वः ,,,,,,,,,,,,, नमः, नैवेद्यं निवेदयामि ।(नैवेद्य निवेदित करे।) नैवेद्यान्ते आचमनीयं समर्पयामि। (जल समर्पित करे।)


ऋतुफल-



इदं फलं मया देव स्थापितं पुरतस्तव । 

तेन मे सफला वाप्तिर भवेज्जन्मनि जन्मनि ॥ 

ॐ भूर्भुवः स्व:,,,,,,,,,,,,,नमः, ऋतुफलानि समर्पयामि। (ऋतुफल अर्पित करे।) फलान्ते आचमनीयं जलं समर्पयामि। (आचमनीय जल अर्पित करे।)


ताम्बूल-


पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥

 ॐ भूर्भुवः स्वः,,,,,,,,,,,,नमः, मुखवासार्थम् एलालवंगपूगीफलसहितं ताम्बूलं समर्पयामि ।(इलायची, लौंग-सुपारीके साथ ताम्बूल अर्पित करे।)


दक्षिणा-



हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ।।

 ॐ भूर्भुवः स्वः,,,,,,,,,,नमः, कृतायाः पूजायाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि । (द्रव्य दक्षिणा करे।)


।। शूझम आरती ।।


कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् । सदा बसन्तं हृदयारबिन्दे भबं भवानीसहितं नमामि ।। 



।।कलश पूजन।।


कलशमें देवी-देवताओंका आवाहन-

तीन बार पंचामृत पांच बार जल


 कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥ कुक्षौ तु सागरा सर्वे सप्तद्वीपा वसुन्धरा । ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥ अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः । अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा ॥ आयान्तु देवपूजार्थं दुरितक्षयकारकाः । गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः । आयान्तु शान्त्यर्थं दुरितक्षयकारकाः ॥



।।सप्तघृतमातृका पुजन।।


ॐ श्रीलक्ष्मीर धीर मेधा स्वाहा सर प्रज्ञा स्वति ।

 मंगल्येषु प्र पूज यन्ते सप्तै ताः घृत मातरः ।।


सप्त घृत मातृकाओं का नाम:-



1- श्री

2- लक्ष्मी

3- धृति

4- मेधा

5- स्वाहा

6- प्रज्ञा

7- सरस्वती




।।षोडशमातृकापूजन।।


गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥ धृतिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवता । गणेशे नाधिका ह्येता वृद्धो पूज्याश्च षोडशः ॥


औपचार पूजा



।।सर्वतोभद्र वेदिका पूजन।।



सर्व प्रथम ब्रह्मादि सर्वतोभद्र मण्डल ध्यान


यं ब्रह्मा वरुणेन्द्र रुद्र मरुतः स्तु वन्ति दिव्येः स्तवै र्वेंदेः,

साङ्ग पद क्रमो पनिष दैर्गायन्ति यं सामगाः ।

ध्या नाव स्थित तद्गतेन मनसा पश्यन्ति यं योगिनो,

यस्यान्तं न विदुः सुरा सुर गणा देवाय तस्मै नमः ॥


।।वास्तु मंत्र।।


नमस्ते वास्तु पुरुषाय भूशय्या भिरत प्रभो, मद्गृहं धन धान्यादि समृद्धिम् कुरु सर्वदा। प्रतितन्नो जुषस्व सहनो भव द्विपद शाम तुष्पदे स्वाहा। शन्नो भव द्विपदे शाम चतुष्पदे स्वाहा।


।। नवग्रह पूजन।।


जपाकुसुम संकाशं काश्यपेयं महद्युतिं।

तमोरिसर्व पापघ्नं प्रणतोस्मि दिवाकरं ।। (रवि) 

दधिशंख तुषाराभं क्षीरोदार्णव संभवं।

नमामि शशिनं सोंमं शंभोर्मुकुट भूषणं ।। (चंद्र)

धरणीगर्भ संभूतं विद्युत्कांतीं समप्रभं।

कुमारं शक्तिहस्तंच मंगलं प्रणमाम्यहं ।। (मंगळ)

प्रियंगुकलिका शामं रूपेणा प्रतिमं बुधं।

सौम्यं सौम्य गुणपेतं तं बुधं प्रणमाम्यहं ।।(बुध)

देवानांच ऋषिणांच गुरुंकांचन सन्निभं

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं (गुरु)

हिमकुंद मृणालाभं दैत्यानां परमं गुरूं।

सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहं।। (शुक्र)

नीलांजन समाभासं रविपुत्रं यमाग्रजं।

छायामार्तंड संभूतं तं नमामि शनैश्वरं।। (शनि) 

अर्धकायं महावीर्यं चंद्रादित्य विमर्दनं।

सिंहिका गर्भसंभूतं तं राहूं प्रणमाम्यहं।। (राहू)

पलाशपुष्प संकाशं तारका ग्रह मस्तकं। 

रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहं।।(केतु)


हवन से पहले शुद्धि का मंत्र


ॐ अपवित्रः पवित्रो सर्वावस्थां गतोपिवा यः स्मरेत पुण्डरीकाक्ष सः वाह्यभ्यतरेः शुचिः




इसके पश्चात नीचे दिए गए अग्नि प्रज्वल मंत्र को पढ़कर कपूर की मदद से अग्नि प्रज्वलित कर देना है।


अग्नि प्रज्वल करने का मंत्र


ऊँ महाज्वालाय विद्महे अग्नि मध्याय धीमहि। तन्नोः अग्नि प्रचोदयात ।।


इसके बाद हवन को चालू कर देना है और नीचे दिए गए मंत्र का जाप करना है जैसे ही आप मंत्र जब करना शुरू करेंगे उसी के बाद आपको हवन में आहुति देनी है और इसी के बाद हर मंत्र में आपको हवन में आहुति देनी है।


हवन शुरू करते हुए पहले पांच प्राणों की घी की आहुति डाली जाती है जो इस प्रकार है


1. ॐ प्राणाय स्वाहः


2. ॐ व्यानाय स्वाहः


3. ॐ अपानाय स्वाहः


4. ॐ समानाय स्वाहः


5. ॐ उदानाय स्वाहः


इसके पश्चात् अग्रलिखित आहुतियाँ डालें


1. ॐ प्रजापतये स्वाहा इदम प्रजापतये नमः


2. ॐ अग्नये स्वाहा इदम अग्नये नमः


3. ॐ ब्रम्हणे स्वाहा इदम ब्रम्हणे नमः


4. ॐ सोमाय स्वाहा इदम सोमाय नमः


5.ॐ गं गणपतये नमः स्वाहा


इसके पश्चात् अग्रलिखित मंत्र को बोलकर भगवान् गणेश की 5 आहुति बनाकर डालें:- 


पूर्णाहुति - Purnahuti


पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ पूर्णम अदः पूर्णम इदम पूर्णात् पूर्ण उदयच्यते । पूर्णस्य पूर्णम आदाय पूर्ण एववशिष्यते ||.


।।वसो धारा मंत्र।।


ॐॐ वसोः पवित्र मसि शतधारं , वसो पवित्रमसि सहस्रधारम् । देवस्त्वा सविता पुनातु वसोः, पवित्रेण शत धारेण सुप्वा, काम धुक्षः स्वाहा ।




आरती


|| पुष्पांजलि ||


ॐ यज्ञेन यज्ञमयजन्त देवास्तानिधर्माणि प्रथमान्यासन् । 

तेहनाकं महिमा नः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ।

 ॐ एकदन्ताय विद्महे वक्रतुण्डायधीमहि । 

तन्नो दन्तिः प्रचोदयात् ॥

ॐ कात्यायनी च विदमहे कन्याकौमार्यै च धीमहि तनो दुर्गे प्रचोदयात् । 

सेवन्तिका बकुल चम्पक पाटलाब्जै पुन्नागजाति करबीर रसाल पुष्पे । 

बिल्व प्रबाल तुलसीदल मंजरीभिः, त्वां पूजयामि जगदीश्वरी मे प्रसीद ॥


त्वमेव माता च पिता त्वमेव । 

त्वमेव बन्धु च सखा त्वमेव ||

 त्वमेव विद्या द्रविणं त्वमेव ।

 त्वमेव सर्वमम देवि देव ॥



|| प्रदक्षिणा ||


आर्द्रा यःकरिणीं यष्टिं पिङ्गलां पद्ममालिनीम् । 

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ।। 


यानि कानि च पापानि जन्मांतर कृतानि च । 

तानि तानि विनश्यन्ति प्रदक्षिणे पदे पदे ।। 

अन्यथा शरणं नास्ति त्वमेव शरणं मम । 

तस्मात् कारुण्य भावेन रक्ष रक्ष रमापते ।


।। क्षमा प्रार्थना।।


पूजां श्चैव न जानामि क्षम्यतां परमेश्वर॥ मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरं। यत्पूजितं मया देव परिपूर्ण तदस्मतु।

। प्रदक्षिणान् समर्पयामि


।। विसर्जन पुष्प अर्पित।। 


ॐ यान्तु देवगणा: सर्वे पूजामादाय मामकीम्। इष्टकामसमृद्धयर्थं पुनर्अपि पुनरा गमनाय च॥ महा काय सूर्य कोटि सम प्रभ

। निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥


।। आशीर्वाद।।

श्रीर्वर्चस्वमायुष्यारोग्यमाविधात् पवमानं महीयते । 

धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥ १ ॥ शान्तिरस्तु शिवं चास्तु शुभं चास्तु धनं तथा।

 ऋद्धिरस्तु वृद्धिरस्तु ब्राह्मणानां प्रसादतः।।२

अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः ।

निर्धनाः सधनाः सन्तु जीवन्तु शरदां शतम् ॥ ३॥

  

 मन्त्रार्थाः सफलाः सन्तु पूर्णाः सन्तु मनोरथाः । 

शत्रूणां बुद्धिनाशोऽस्तु मित्राणामु दयस्तव ।।४


ततो यजमानाय - प्रसादार्पणम् ।  


॥ इति यज्ञविधिः ॥