संकल्प
ॐ विष्णुर्विष्णुर्विष्णुः । श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्यैतस्य ब्रह्मणोह्नि द्वितीयपरार्द्ध श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे युगे कलियुगे कलिप्रथमचणे भूर्लोके भारतवर्षे जम्बूद्वीपे भरतखण्डे आर्यावर्तान्तर्गतब्रह्मावर्त्तस्य क्षेत्रे .......... प्रदेशे नाम्निनगरे (ग्रामे वा) श्रीगङ्गायाः ...... (उत्तरे/दक्षिणे) दिग्भागे देवब्राह्मणानां सन्निधौ श्रीमन्नृपतिवीरविक्रमादित्यसमयतः (संख्या) परिमिते प्रवर्त्तमानसंवत्सरे प्रभवादि षष्ठिसंवत्सराणां मध्ये नामसंवत्सरे, ऋतौ,.. मासे.......... पक्षे........... योगे,.. करणे, राशिस्थिते अयने,......... तिथौ,........... वासरे,.......... नक्षत्रे, चन्द्रे,.......... राशिस्थिते श्रीसूर्य,......... राशिस्थिते देवगुरौ शेषेशु ग्रहेषु यथा-यथा राशिस्थान-स्थितेषु सत्सु एवं ग्रहगुणविशेषण विशिष्टायां शुभपुण्यतिथौ गोत्रोत्पन्नः शर्मणः (वर्मणः, गुप्तः वा) सपरिवारस्य ममात्मनः श्रुतिस्मृति पुराणोक्त पुण्यफलावाप्त्यर्थं मम ऐश्वर्याभिवृद्धयर्थं अप्राप्तलक्ष्मीप्राप्त्यर्थं प्राप्त लक्ष्म्याश्चिरकाल संरक्षणार्थं सकलमनः इप्सितकामनासंसिद्धयर्थं लोके वा सभायां राजद्वारे वा सर्वत्र यशोविजयलाभादि प्राप्त्यर्थं समस्तभय व्याधि जरा पीडा मृत्यु परिहारद्वारा आयुरारोग्यैश्वर्याद्यभिवृद्ध्यर्थं तथा च मम जन्मराशेः साकाशाद्ये केचिद्विरुद्धचतुर्थाष्टम द्वादशस्थानस्थिताः क्रूरग्रहाः तैः संसूचितं सूचयिष्यमाणञ्च यत्सर्वारिष्टं तद्विनाशद्वारा सर्वदा तृतीयैकादश स्थानस्थितवच्छुभफल प्राप्त्यर्थं पुत्रपौत्रादिसन्ततेरविच्छिन्न वृद्धयर्थं आदित्यादिन्नवग्रहानुकूलतासिद्ध्यर्थं इन्द्रादि-दशदिक्पाल प्रसन्नतासिद्ध्यर्थं आधिदैविकाधिभौतिकाध्यात्मिक त्रिविधतापोपशमनार्थं धर्मार्थकाममोक्षफलावाप्त्यर्थं श्री प्रीतये यथाज्ञानं यथाशक्तिसम्पादित सामग्रया कलशस्थापनपूजन पूर्वकं देवस्य पूजनं (अन्य कर्म) करिष्ये। तदड्रगत्वेन गणपत्यादि देवानां पूजनञ्च करिष्ये।
।।इति संकल्प ।।
Social Plugin